Lesson 27: महाकविः श्रीकालिदासः

picture of Kalidasa

पुरा भोजस्य राज्ञः सभायां परश्शता कवयोऽभूवन्। तेषामेकः कालिदासो नाम। कालिदासः प्रतिभया सर्वानन्यान् कवीनत्यशेत तेन भोजराजस्य तस्मिन् महानादरः। तमेव स कवीनां चक्रवर्तिनममन्यत॥

इतरे कवयः तदसहमानाः परोक्षे भोजं राजानमनिन्दन्। अयं वृत्तान्तः कथञ्चित भोजस्य कर्णमागतः।

एकस्मिन्नहनि राजा सर्वान् कवीनाहूय ’क-ख-ग-घ’ इत्येतां ’समस्यां’ दत्वा तानब्रवीत् - ’यः समस्यामिमं पूरयिष्यति स एव कवीनां चक्रवर्ती भविष्यति’ इति। एवमुक्तवा तान् विससर्ज॥

गृहमेत्य सर्वे कवयः सर्वान् व्यापारान् परित्यज्य समस्यायाः पूरणे निरता बभूवुः। परं नैकोपि समस्याम् पूरयितुं शशाक। परेद्युस्ते राजसभामेत्य म्लानमुखाः तस्थुः॥

कालिदासस्तु सभां प्रति चलन् मार्गे तालपत्रमयं पुस्तकमादाय पाठशालां गच्छनतीं बालिकामपश्यत्। सा च तं दृष्ट्वा सविनयं प्रणनाम। तेन तस्यां प्रीतः कविः तया सह सँल्लपति -

कालिदासः - का त्वम् बाले?

बालिका - काञ्चनमाला।

कालिदासः - कस्याः पुत्री?

बालिका - कनकलतायाः

कालिदासः - हस्ते किम ते?

बालिका - तालीपत्रम्।

कालिदासः - का वा रेखा?

बालिका - क-ख-ग-घ॥

तया सहैवं सँल्लप्य कालिदासः सभामागच्छत्। ततो राजा प्राह - ’भो भोः कबयः! कवयः! पठ्यतां यदि पूरिता समस्या’। सर्वे निर्वचना अधोमुखाः स्थिताः। अथ कालिदासः पीठादुत्थाय व्यजिज्ञापत् - ’राजन् मया पूरिता समस्या।’ राजा प्राह - ’पठ्यताम्’ कालिदासः पठति -

का त्वं बाले? काञ्चनमाला

कस्याः पुत्री? कनकलतायाः।

हस्ते किं ते? तालीपत्रं

का वा रेखा - क-ख-ग-घ॥

श्लोकमिमं श्रुत्वा सर्वेऽपि कवयः त्यक्तमत्सराः कालिदासमेव कवीनां सार्वभौममन्वमन्यन्त॥


Translation

In olden days (पुरा) in the assembly (सभायाम्) of king (राज्ञः) Bhoja (भोजराजस्य) there were (अभवन्) more than a hundred (परसश्शता) poets (कवयः). Of them (तेषाम्) one (एकः) named (नाम) Kalidasa (कालिदास). Kalidasa's (कालिदासः) genius (प्रतिभया) exceeded (अत्यशेत) other poets (कवीन्) due to that (तेन) King Bhoja (भोजराजस्य) had great respect (महानादरः) for him (तस्मिन्). He (तम्) only (एव) is the emperor (चक्रवर्तिनम्) of the poets (कविनाम्) thought (अमन्यत)॥

Other (इतरे) poets (कवयः) not tolerating (असहमानाः) that (तत्) indirectly (परोक्षे) ridiculed (अनिन्दन्) King Bhoja (भोजम् राजानम्). That (अयम) news (वृत्तान्तः) somehow (कथञ्चित्) came to (आगतः) Bhoja's (भोजस्य) ear (कर्णम्).

One (एकस्मिन) day (अहनि) raja (राजा) called (आहूय) all (सर्वे) the poets (कवीन्) and giving them (दत्वा) this (इति एताम्) puzzle (समस्याम्) 'क-ख-ग-घ' said (अब्रवीत्) to them (तान्) like this (इति) - "The one who (यः) completes (पूरयिष्यति) this (इमम्) puzzle (समस्याम्), he (सः) only (एव) will become (भविष्यति) the king (चक्रवर्तीम्) among poets (कवीनाम)". Having said (उक्त्वा) this (एवम्) he dismissed (विससर्ज) them (तान्).

Having come (एत्य) home (गृहम्) all (सर्वे) poets (कवयः) leaving (परित्यज्य) all (सर्वान्) work (व्यापारान्) were involved in (निरता बभूवुः) completing (पूरणे) the puzzle (समस्या). But (परम्) not (न) even one (एकः अपि) was able to (शशाक) complete (पूरयितुम्) the problem (समस्याम्). The next day (परेद्युः) they (ते) having come (एत्य) to the royal assembly (राजसभाम्) were languid faced (म्लानमुखाः) and stationary (तस्थुः).

Kalidasa (कालिदासः तु) going (चलन्) on the way (मार्गे) towards (प्रति) the assembly (सभाम्) saw (अपश्यत्) this (अयं) girl (बालिकाम्) who was going (गच्छन्तीम्) to school (पाठशालााम्). And (च) she (सा) seeing (दृष्टवा) him (तम्) with humility (सविनयम्) saluted (प्रणनाम).

The poet (कविः) pleased (प्रीतः) in her (तस्याम्) due to that (तेन) converses (सँल्लपति) with (सह) her (तया) -

Kalidasa (कालिदासः) - Who (का) are you (त्वम्) small girl (बाले)?

Girl (बालिका) - Kanchanamala (काञ्चनमाला)

Kalidasa (कालिदासः) - Whose (कस्याकाः) daughter (पुत्री)?

Girl (बालिका) - Kanakalatha's (कनकलतायाः)

Kalidasa (कालिदास) - What (किम्) is in your (ते) hand (हस्ते)?

Girl (बालिका) - Palm leaf (तालीपत्रम्)

Kalidasa (कालिदासः) - What (का) is that (वा) line (रेखा)?

Girl (बालिका) - ka (क) kha (ख) ga (ग) gha (घ)

Having conversed (सँल्लप्य) with (सह) her (तस्या) like this (एवम्) Kalidasa (कालिदासः) came (अगच्छत्) to the assembly (सभाम्). Then (ततः) the king (राजा) said (प्राह) - "Oh (भोः) Oh (भोः) Poets (कवयः)! Poets (कवयः)! Read (पठयतां) if (यदि) the puzzle (समस्या) is complete (पुरिता)". All (सर्वे) remained (स्थिताः) without words (निर्वचनाः) facing down (अधोमुखाः). Then (अथ) Kalidasa (कालिदासः) having gotten up (उत्थाय) from the seat (पीठात्) abd asked (व्यजिज्ञापत्) - 'King (राजन्) the puzzle (समस्या) was completed (पूरिता) by me (मया)'. King (राजा) said (प्राह) - 'Read (पठ्यताम्)'. Kalidasa (कालिदासः) reads (पठति)-

Who (का) are you (त्वम्) small girl (बाले)? Kanchanamala (काञ्चनमाला)

Whose (कस्याकाः) daughter (पुत्री)? Kanakalatha's (कनकलतायाः)

What (किम्) is in your (ते) hand (हस्ते)? Palm leaf (तालीपत्रम्)

What (का) is that (वा) line (रेखा)? ka (क) kha (ख) ga (ग) gha (घ)

Having listened (श्रुत्वा) this (इमम्) verse (श्लोकम्) all (सर्वे) poets (कवयः) having abandoned their envy (त्यक्तमत्सराः), accepted (अन्वमन्यन्त) Kalidasa (कालिदासम्) alone (एव) as the sovereign (सार्वभोमम्).


Notes and Vocabulary

WordMeaningWordMeaningWordMeaning
परश्शताः a. m.more than a hundredपरेद्युः innext dayप्रतिभा fgenius
अत्यशेत Aexcelledतालीपत्रमय aconsisting of palm leavesम्लानमुखाः a. m.with their dejected faces
चक्रवर्ती man emperorपरोक्षे inbehind one's backनिर्वचनाः a. m.without words
समस्याpart of a stanza given to be completedव्यापार mengagementत्यक्तमत्सर a. m.giving up envy
तस्थुstationaryमत्सरjealous, envious