Amarakosha Extracts

The textbook contains selected extracts from Amarakosha in every lesson. This is a collection of the extracts.


Lesson 2

भाण्डम् - सर्वमावपन भाण्डं पात्रामत्रं च भाजनम्

जोषम् २ किं २ - तू्ष्णीम्थे सुखे जोषं किं पृच्छायां जुगुप्सने


Lesson 6

अश्वः १३ - घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहार्वगन्धर्व हयसैन्धवसप्तयः॥

अश्वः - घोटके (7th case of घोटक शब्दः) वीति तुरग तुरङ्ग अश्व तुरङ्गम। वाजि वाह अर्व (अर्वन् शब्दः) गन्धर्व हय सैन्धव सप्ति।

Here "सैन्धव" literally means "belongs to ocean / related to ocean. So "सैन्धव" also means "salt". सिन्धु - ocean. सिन्धोर्भवः सैन्धवः।


Lesson 7

पिपासा (thirst) ६ - उदन्या तु पिपासा तृट् तृषा तर्षश्च तर्षणम्।

पीयूषम् (nectar) ३ - सुधा पीयूषममृतम्.

विषं (poison) ३ - क्ष्वेडस्तु गरलं विषम्।

श्रृगालः (jackal) १० - स्त्रियां* शिवा भूरिमायगोमायुमृगधूर्तकाः। श्रृगाल-वञ्चक-क्रोष्ट-फेरु-फेरव-जम्बुकाः।

*स्त्रियां शिवा जम्बुकपर्यायः ’शिवा’ शब्दः नित्यं स्त्रीलिङ्गः इत्यर्थः॥


Lesson 8

व्याघ्रः (tiger) - शार्दूलद्वीपिनौ व्याघ्रे।

देहः (११) - गात्रे वपुः संहननं शरीरं वर्ष्म विग्रहः। कायो देहः क्लीबपुंसोः* स्रियां मूर्तिस्तुस्तनूः॥

*क्लीबपुंसोः देहशब्दः नपुंसकलिङ्गः पुंलिङ्गश्च इत्यर्थः। मूर्त्यादयः त्रयः शब्दाः स्त्रीलिङ्गाः॥


Lesson 9

स्वतन्त्रः ५ - स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः। (Independent)

परतन्त्रः ४ - परतन्त्रः पराधीनः परवान् नाथवानपि।। (Dependent)


Lesson 16

लता (creeper) ५ - लता प्रतानिनी वीरुत् वल्ली तु वृततिर्लता॥


Lesson 17

उलूखलम् २ - उदूखलमुलूखलम्।

रात्रिः ११ - निशा निशीथिनी रात्रिः त्रियामा क्षणदा क्षपा। बिभावरीतमस्विन्यौ रजनी यामिनी तमी॥


Lesson 18

गजः (elephant) १२ - दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी।

आधोरणः (rider or driver of an elephant) ४ - आधोरणा हस्तिपका हस्त्यारोहा निषादिनः॥


Lesson 19

मूढः (idiot) ६ - अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः।

वेगः (speed) ६ - जवो वेगस्तथा रंहस्तरसी तु रयः स्यदः।

तीरम् (bank, shore) ५ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु।


Lesson 20

पक्षः ६ - गुरुत्पक्षच्छदाः पत्रं पतत्रं च नतूरूहम्॥

Lesson 21


Lesson 22

बालः २ - बालस्तु स्यान्माणवकः।

युवा ३ - वयस्यतरुणो युवा।

चोरः १० - चोरः कुम्भीलकः स्तेनो दस्यु तस्कर मोषकाः प्रतिरोधि परास्कन्दि पाटच्चरमलिम्लुचाः॥


Lesson 23

सत्वरम् ११ - अथ क्षिप्रमरं शीघ्रं त्वरितं लघु सत्वरम्। द्रुतं च त्वरितं तूर्णम् अविलम्बितमाशु च॥

नर्तनम् ६ = ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम्॥