Lesson 13: मयूरः

Peacock picture

इदं किमपि रमणीयमुद्यानम्। अत्र द्वौ मयूरौ एका मयूरी तरवो लताः प्राकारश्च दृश्यन्ते। एको मयूरः पिच्छानि विस्तृत्य नृत्यति। अपरः पिच्छानि संवृत्य प्राकारस्योपरि तिष्ठति। तेन सह मयूरी अपि तत्र तिष्ठति। मयूर्याः पिच्छभारो नास्ति। नापि सा रम्या॥

मयूराणां बर्हेषु चित्रवर्णा अर्धचन्द्राकृतयो विशेषकाः सन्ति। ते जनानां चक्षूंषि रमयन्ति। एतैः मयूराणां बर्हैः व्यजनानि क्रियन्ते। केचित् तानि भूषणत्वेन धरन्ति॥

मयूरा वर्षासु मेघस्य शब्दं श्रुत्वा प्रहृष्टाः नृत्यन्ति। बर्हाणि विस्तृत्य नृत्यन् मयूरः फुल्लकुसुमो बालवृक्ष इव विभाति। तस्य केकारवस्तु1 काकस्वरवत् परुषः। अथापि तस्य रूपमतीव मनोहरम्। अतो मयूरान् गृहीत्वा धनिनो जनाः पुष्पोद्यानेषु संरक्षन्ति॥


Notes:

1केका + रव where केका means the sound of peacock and रव means sound. So together केकारवः - scream / cry of peacock.


Translation:

Title: Peacock

This (इदम्) is some (किमपि) delightful (रमणीयम्) garden (उद्यानम्). Here (अत्र) two (द्वौ) peacocks (मयूरौ) and one (एका) pea-hen (मयूरी), trees (तरवः), creepers (लताः), and a wall (प्राकारः) are seen (दृश्यन्ते). One (एकः) peacock (मयूरः) having expanded (विस्तृत्य) its tail (पिच्छानि) is dancing (नृत्यति). Another (अपरः) having closed (संवृत्य) its tail (पिच्छानि) is standing (तिष्ठति) on the wall's (प्राकारस्य) top (उपरि). With (सह) him (तेन) pea-hen (मयूरी) also (अपि) stands (तिष्ठति) there (तत्र). Pea-hen's (मयूर्याः) tail (पिच्छ) is not (नास्ति) heavy/thick (भारः). Also (अपि) she (सा) is not (न) delightful (रम्या).

In peacock's (मयूराणां) feathers (बर्हेषु) colorful (चित्रवर्णा) half-moon shaped (अर्धचन्द्राकृतयो) marks (विशेषकाः) are there (सन्ति). They (ते) please (रमयन्ति) the eyes (चक्षूंषि) of people (जनानां). With these (एतैः) feathers (बर्हैः) of the peacock (मयूराणां) fans (i.e. hand fans) (व्यजनानि) are made (क्रियन्ते). Some (केचित्) wear (धरन्ति) those (तानि) like ornaments (भूषणत्वेन).

During rain (वर्षासु) peacocks (मयूराः), having heard (श्रुत्वा) the sound (शब्दं) of the clouds (मेघस्य), exceedingly pleased (प्रहृष्टाः) (they) dance (नृत्यन्ति). Spreading (विस्तृत्य) its wings (बर्हाणि) and dancing (नृत्यन्) peacock (मयूरः) looks/shines (विभाति) like (इव) a young tree (बालवृक्ष) with bloomed flowers (फुल्लकुसुमो). His (तस्य) cries (केकारवः) though (तु) is gruff (परुषः) like a crow (काकस्वरवत्). But still (अथापि) his (तस्य) (i.e. it's) form (रूपम्) is extremely (अतीव) attractive (मनोहरम्). Therefore (अतः) rich (धनिनः) people (जनाः) having caught (गृहीत्वा) peacocks (मयूरान्) keep (संरक्षन्ति) (them) in flower gardens (पुष्पोद्यानेषु).


Vocabulary

WordMeaningWordMeaning
उद्यान nparkविस्तृत्य inhaving expanded
प्राकार mwallसंवृत्य inhaving closed
पिच्छम् ntail of a peacockव्यजन nfan
बर्हम् Ntail of a peacockफुल्ल ablown, opened