Lesson 20: कुक्कुटो रत्नं च

picture of rooster

एकदा कुक्कुटः कश्चित् पादेनावकरं किरन्।

ददर्श भासुरं किञ्चिद्रत्नं श्रेष्ठिगृहाङ्गणे॥

कुक्कुटस्यानभिज्ञस्य रत्नलाभेन किं फलम्?

रत्नमूल्यं कियद्वेति किं स जानाति मन्दधीः॥

अतः स पक्षौ विस्तृत्य विधूय वदनं मुहुः।

तारं रटन् वक्रवत्रस्तद्रत्नं समगर्हयत्॥

रे रत्नं! शिरसा धृत्वा लोक्स्त्वामभिनन्दतु।

किन्तु धान्यकणेन त्वं नैव सादृश्यमर्हसि॥

इत्युक्तवा स च तद्रत्नं पादेनाक्षिप्य दूरतः॥

अन्यत्र गतवान् शीघ्रं धान्यान्वेषणतत्परः॥


Translation


Notes and Vocabulary

WordMeaningWordMeaning
किरन् a. m.scatteringधान्यकण ma grain of corn
अङ्गण n. a.a courtyardसादृश्य n.equality
कियत् n, n.how muchआक्षिप्य inthrowing off
विधूय in.having shaken